संस्कृतभाषा इहपरकल्याणसाधिका

Main Article Content

तिरुमल

Abstract

शोधपत्रप्रविधि:
उत्तरं यत्समुद्रस्यहिमाद्रेश्चैव दक्षिणम् । वर्षं तद्भारतं नामभारती यत्र सन्तति: ॥
इह खलु जगति सत्सु बहुषु जीविषु मानव: मानवेतरजीविभ्य: भिन्न: उन्नतस्तरस्थश्च पशुपक्षिक्रिमिकीटेषु इव
वर्तमानस्वाभाविकज्ञानेन तृप्तेरभावात् । अत एवोच्यते- आहारनिद्रा भयमैथुनञ्च सामान्यमेतत्पशुभिर्नराणाम् ।
धर्मो हि तेषामधिको विशेष: धर्मेण हीना: पशुभि: समाना: ॥
जिज्ञासाहेतो: नैमित्तिकज्ञानावाप्तौ समर्थ: तेन सर्वाङ्गीणविकासश्च । परं नैमित्तिकज्ञानन्तु लभते गुरु-ज्येष्ठानां
शुश्रूषया, ऋषिमुनिभि:, विद्वद्भि: विविधघटनदर्शन-श्रवणेन । किन्तु गम्भीरदृष्ट्या अवलोकनेन
ईदृशनैमित्तिकज्ञानम् इन्द्रियगम्यभौतिकवस्तुमात्रेषु सञ्चरति न तु परमात्म-जीवात्म-बन्ध-मोक्ष-
धर्माद्यतीन्द्रियतत्वस्पर्शने । अतीन्द्रियज्ञानाश्रयकदिव्यज्ञानं परिपूर्णविकासे अनिवार्यम् । आध्यात्मिक-
वैदिकयुगस्य मानवा: जीवनधारणाय धर्मम् आचरन्ति स्म । कोऽयं धर्म: ? यतोऽभ्युदयनि:श्रेयस: सिद्धि: स धर्म:
। यतो हि धर्मो विश्वस्य जगत: प्रतिष्ठा । धर्मेण पापमपनुदति । लोके धर्मिष्ठं प्रजा उपसर्पन्ति । इति च श्रुति: ।

Article Details

Section

Research Articles

Author Biography

तिरुमल

सहप्राध्यापक: -सुरानमहाविद्यालय:, बसवनगुडि-बेङ्गलूरु

References

विष्णुपुराणम्

हितोपदेश:

वैशेषिकदर्शनम्

महानारायणोपनिषत्

महाभारतम्-स्वर्गारोहणपर्व-५-५०

स्कन्दपुराणम्- नागरखण्ड: अध्याय:- 239 : श्लोक 31

तैत्तिरीयारण्यकस्य पीठिका

महाभारतम्- शान्तिपर्व-१३१.५६

वेदभाष्यम्

तैत्तिरीयारण्यकस्य पीठिका

महाभारतम्- शान्तिपर्व-

मनुस्मृति:,

साधनापञ्चकम्

प्रातिशाख्यम्

श्रीमद्भगवद्गीता-३ अध्याय:

श्रीमद्भगवद्गीता-२ अध्याय:,

श्रीमद्भगवद्गीता-१६ अध्याय:

राघवयादवीयम्,

मनुस्मृति:

आपस्तम्बधर्म सूत्र 7/29

महानारायणोपनिषत्

श्रीवैखानसगृह्यसूत्रम्,

सहवैमन्त्रभाग:

अमृतबिन्दुपनिषद्,६/३४

मनुस्मृति: