भागवतमहापुराणे जीवन मौल्यानि

Main Article Content

शिवरामगुप्त बि.

Abstract

पुरा भवमिति ।  पुरा + “ सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च ।”  ४ ।  ३ । २३ ।  इति ट्युः ।  “ पूर्ब्बकालैकसर्व्वजरत्पुराणनवकेवलाः समानाधिकरणेन । “  २ ।  १ ।  ४९ ।  इति निपातनात् तुडभावः ।  यद्वा    “ पुराणप्रोक्तेषु ब्राह्मणकल्पेषु । “  ४ ।  ३ ।  १०५ ।  इति निपातितः ।  यद्वा    पुरा नीयते इति ।  नी + ड । णत्वञ्च ।)  व्यासादिमुनिप्रणीतवेदार्थवर्णितपञ्चलक्षणान्वितशास्त्रम् ।
भारतीयसंस्कृतेः सभ्यतायाः च अवबोधनाय पुराणानां नितरां महत्त्वमस्ति ।
तत्र च अनैतिहासिक्यः कथाः, विष्णुदशावतारवर्णनानि, देवपूजाविधयः, पर्व-व्रतनियमाश्चेति विशेषतः मौल्यानां विषये अपि विचाराः उपलभ्यन्ते। वेदप्रामाण्येन पुराणप्रामाण्यं खलु प्रख्यायते। पुराणसंख्या-विषये मतभेदो नास्ति, सर्ववादिसिद्धं तेषां अष्टादशत्वम्। कस्यापि मानवसमाजस्य इतिहासः तावन्न पूर्णो मन्यते, यावत्तस्य सृष्टेः प्रारम्भकालतः इतिहासो न प्रस्तूयते। पाश्चात्त्यशिक्षाप्रभाविता विद्वांसो नैतदनुमोदयन्ति स्म, अत एव ते पुराणानि सत्यानि न स्वीकुर्वन्ति स्म, परं सम्प्रति दृष्टिकोणपरिवर्तनं जातम्। सुसंस्कृतया दृष्ट्या भारतीयमितिहासं जिज्ञासमानानां कृते पुराणानि निधय इव।

Article Details

Section

Research Articles

Author Biography

शिवरामगुप्त बि.

Transcend Degree College, Bangalore.

 

How to Cite

शिवरामगुप्त बि. (2025). भागवतमहापुराणे जीवन मौल्यानि. ಅಕ್ಷರಸೂರ್ಯ (AKSHARASURYA), 7(03), 305 to 322. https://aksharasurya.com/index.php/latest/article/view/1217

References

वेद विज्ञानम् – नारायाणाचार्याः –साहित्य प्रकाशनम्

संस्कृतसाहित्येतिहासः, आचार्य रामचन्द्र मिश्रः, चौखम्बा विद्या भवन, वाराणसी, २००१.

ऋग्वेदभाष्यभूमिका, , १९६०

आचार्यश्रीराम शर्मा, ऋग्वेद संहिता, संस्कृति संस्थान, बरेली, २००४

ऋगवेदः , साक्षि प्रकाशनम् २००६

श्रीम‌द्भागवत महापुराणम् – गीताप्रेस् ,२००५

योगदर्शनम् – काले अन्तर्जालतः ।

वेदविज्ञानम् – प्रमोद्कुमार पाठकः - वाराणसी