नाट्यरङ्गे ध्वनिसिद्धान्तस्य प्रभाव: व्यङ्ग्यव्याख्यामधिकृत्य एकं अध्ययनम् ||
Main Article Content
Abstract
काव्यशास्त्राचार्येषु आनन्दवर्धन: तस्य ध्वनिसिद्धान्तश्च प्रचुरप्रचार: | तेन ग्रथित: ध्वन्यालोकग्रन्थ: भारतीय काव्यशास्त्रस्य मकुटस्थाने स्थित: | ग्रन्थोऽयं काव्यस्य आत्मा ध्वनिरिति समर्थितम् | ध्वने: निरूपणेन काव्यसमीक्षाजगति नूतनयुगस्य आरंभमेव समायातः| प्रतीयमानार्थस्य प्राधान्यं यस्मिन् काव्ये चमत्कारिरूपेण दृश्यते तदेव ध्वनिकाव्यम् |अयमर्थस्तु सहृदयहृदयानानन्दयति | ये तु वस्त्वलंकाररसरूपेण त्रिविधो भवति| तेषु रसध्वनि: महानीयतमोमन्यते | आनन्दवर्धनेन रसस्य ध्वनेश्च पारस्परिकसंबन्ध: च विशदीकृत: | रसस्तु सदा व्यङ्ग्य:| रसध्वने: चारुत्वाहेतुत्वात् काव्ये तथा नाट्ये तस्योपयोग: सहृदयान् आनन्दयति | आनन्दवर्धनस्तु श्रव्यकाव्यमनुसृत्येव ध्वनि: प्रस्तावित: | प्रायोगिक रूपेण ध्वने: प्रयोग: तदनन्तरकालीन कुलशेखरवर्मणा एव कृत: | स तु चेर साम्राज्यस्य प्रमुख: राजा तथा कवि: आसीत् | तेन महाभारतेतिवृत्तं आश्रित्य विरचित: सुभद्राधनञ्जयम् तथा तपतीसंवरणम् इति नाटकद्वयौ ध्वनिसिद्धान्तप्रयोगेन एव कृत: | ध्वनियुक्तनाटकद्वयौ इति विशेषणेन रङ्गावतरणार्थं नवीन अभिनय प्रयोगोऽपि समन्वितम् | ते तु धनञ्जयध्वनि तथा संवरणध्वनीति नाम्ना प्रसिद्ध : | ये द्वे संस्कृत भाषाया: प्रथम रङ्गपाठ: इति मन्येते | गणपतिशास्त्रि महाभागेन ये द्वे ग्रन्थौ मिलित्वा व्यङ्ग्यव्याख्या इति एकसंज्ञां कृत: | प्रस्तुत लेखनं नाट्यरङ्गे ध्वनिसिद्धान्तस्य प्रभाव:- व्यङ्ग्यव्याख्यामधिकृत्य एकं अध्ययनम्, मुख्यतया नाट्ये ध्वने: प्रयोगमार्गाणि तथा व्यङ्गार्थाभिनयसंकेता:, दृश्यकाव्ये व्यङ्ग्यव्यञ्जक सन्निवेश:, केरलीय रङ्गावतरणे ध्वने: प्रभाव: इत्यादि विषयानधिकृत्य व्यङ्ग्यव्याख्यां पुरस्कृत्य प्रतिपादित:|
Article Details
Section

This work is licensed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.
References
आचार्य जगन्नाथ पाठक (२००३) ध्वन्यालोक: |(प्रकाश हिन्दी व्याख्योपेत: ) वाराणसी, चौखम्बा विद्याभवन |
आचार्य विश्वेश्वर सिद्धान्त शिरोमणि (२००९)ध्वन्यालोक: |वाराणसी, ज्ञानमण्डल लिमिटेड |
गङ्गासागर राय:| (२०१०)ध्वन्यालोक: |वाराणसी, चौखम्बा विद्याभवन |
जयकृष्णदास गुप्ता | (१९३७)ध्वन्यालोक: |(दीधिति व्याख्या )विद्याविलास प्रेस्स|
नीलकण्ठ शास्त्री | (१९८१) ध्वन्यलोकोज्जीवनी | तिरुवनन्तपुरम्, केरलविश्वविद्यालय: |
पुरुषोत्तमशर्मा चातुर्वेद:| ( १९५४) ध्वन्यालोकसार:| बनारस चौखम्बा संस्कृत सीरीस् |
रामसागर त्रिपाठी | (१९८१) ध्वन्यालोक: |( तृतीय एवं चतुर्थ उद्योत:) वाराणसी, मोतीलाल् बनारसीदास |
Raja, Kunjunni K.(1980) The Contribution of Kerala to Sanskrit Literature. University of Madras.
Raja, Kunjunni K. (2000). Indian theories of meaning. 2nd ed. Chennai, India. The Adyar Library and Research Centre.
Tripathi, K. D. (1995). From sensuous to super sensuous: Some terms of Indian aesthetics. Retrieved on 7 July 2007, from http://ignca.nic.in/ps_03008.htm