संस्कृतभाषा इह्परकल्याणसाधिका

Main Article Content

N. R. Bahallika Rao

Abstract

“इह – पर”- इति अस्य जगतः अन्यस्य जगतः विषये ज्ञातुं सुलभतरः उपायः अस्ति ।तदस्माकं पर्यावरणं परितः आदौ कौतूहलेनअवलोकनंकरणीयम् । ततः इदं कः सृष्टवान् कथं सृष्टाः किमर्थं सृष्टाः इति प्रश्नाः मनसि उत्पद्यन्ते । तदेव कौतुकं भारतीयानां जीवनस्य परमलक्ष्यीकृतं तत्वचिन्तनमस्ति । सा चिन्तना एव “ ब्रह्म जिज्ञासा” इति कथ्यते । अनया मानवः जिज्ञासया इह – पर विषये अवगन्तुम् आरभेत ।
इदं जगत्त् – ब्रह्माण्डं समग्रतया विस्मयकारि वर्तते । आदौ भूमिग्रहः यत्र वयं जीवामः तत्र यानिभिन्न - भिन्नानि चराचर वस्तूनि सन्तितेषां स्वरूपाणि प्रत्यक्षतया अनुभवामः । अपि च तत्र अद्यापि अनविष्कृताः अनेके विषयाः वर्तन्ते । अस्माकं पृथिवी अत्यन्तं विशाला अनन्ते अन्तरिक्षे प्लवति । तथैव सूर्यः चन्द्रः अन्ये ग्रहाः असङ्ख्यातनक्षत्राणि तेषां निर्धारितपथे परिभ्रमन्ति ।सर्वेषां सत्तानां एतानि सर्वाणि कार्याणि परस्परम् अनुकूलानि सन्ति ।
जगति जडचेतनौ स्तः । जडाः अस्वतन्त्राः ।किन्तु मनुष्यसहिताः प्राणिनः अन्तः “जीव – आत्म” इति “अदृश्यमानं चालनं स्थायित्वं शक्तियुक्ताः सन् स्वतन्त्रतया यथापेक्षते तथा कार्यं कर्तुं श्क्नुवन्ति । ते विशिष्य चिन्तनमन्थन सामर्थ्ययुक्ताः सन्ति ।प्राणिनां शरीराणि जडप्रकृत्या निर्मितम्। तस्मिन् प्रविष्टाः अप्राकृतिकाः जीवाः यथोचितव्यापार्ं कुर्वन्ति । एषःसन्निवेशः प्राणिनः जन्म इति कथ्यते । किन्तु सर्वं हि आयुः निर्धारितम् । शरीरात् जीवस्य निर्गमनमेव जीवनस्य अन्त्यः ।एवम् आत्मनः स्वरूपं वर्णयति भगवद्गीता ।
न जायते म्रियते वा कदाचिद् नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ (२ – २०)

Article Details

Section

Research Articles

Author Biography

N. R. Bahallika Rao

Research Scholar, Karnataka Samskruta Vishwavidyalaya, Bangalore, Karnataka.

How to Cite

N. R. Bahallika Rao. (2026). संस्कृतभाषा इह्परकल्याणसाधिका. ಅಕ್ಷರಸೂರ್ಯ (AKSHARASURYA), 7(03), 289 to 295. https://aksharasurya.com/index.php/latest/article/view/1215

References