संस्कृतभाषा इह्परकल्याणसाधिका
Main Article Content
Abstract
“इह – पर”- इति अस्य जगतः अन्यस्य जगतः विषये ज्ञातुं सुलभतरः उपायः अस्ति ।तदस्माकं पर्यावरणं परितः आदौ कौतूहलेनअवलोकनंकरणीयम् । ततः इदं कः सृष्टवान् कथं सृष्टाः किमर्थं सृष्टाः इति प्रश्नाः मनसि उत्पद्यन्ते । तदेव कौतुकं भारतीयानां जीवनस्य परमलक्ष्यीकृतं तत्वचिन्तनमस्ति । सा चिन्तना एव “ ब्रह्म जिज्ञासा” इति कथ्यते । अनया मानवः जिज्ञासया इह – पर विषये अवगन्तुम् आरभेत ।
इदं जगत्त् – ब्रह्माण्डं समग्रतया विस्मयकारि वर्तते । आदौ भूमिग्रहः यत्र वयं जीवामः तत्र यानिभिन्न - भिन्नानि चराचर वस्तूनि सन्तितेषां स्वरूपाणि प्रत्यक्षतया अनुभवामः । अपि च तत्र अद्यापि अनविष्कृताः अनेके विषयाः वर्तन्ते । अस्माकं पृथिवी अत्यन्तं विशाला अनन्ते अन्तरिक्षे प्लवति । तथैव सूर्यः चन्द्रः अन्ये ग्रहाः असङ्ख्यातनक्षत्राणि तेषां निर्धारितपथे परिभ्रमन्ति ।सर्वेषां सत्तानां एतानि सर्वाणि कार्याणि परस्परम् अनुकूलानि सन्ति ।
जगति जडचेतनौ स्तः । जडाः अस्वतन्त्राः ।किन्तु मनुष्यसहिताः प्राणिनः अन्तः “जीव – आत्म” इति “अदृश्यमानं चालनं स्थायित्वं शक्तियुक्ताः सन् स्वतन्त्रतया यथापेक्षते तथा कार्यं कर्तुं श्क्नुवन्ति । ते विशिष्य चिन्तनमन्थन सामर्थ्ययुक्ताः सन्ति ।प्राणिनां शरीराणि जडप्रकृत्या निर्मितम्। तस्मिन् प्रविष्टाः अप्राकृतिकाः जीवाः यथोचितव्यापार्ं कुर्वन्ति । एषःसन्निवेशः प्राणिनः जन्म इति कथ्यते । किन्तु सर्वं हि आयुः निर्धारितम् । शरीरात् जीवस्य निर्गमनमेव जीवनस्य अन्त्यः ।एवम् आत्मनः स्वरूपं वर्णयति भगवद्गीता ।
न जायते म्रियते वा कदाचिद् नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ (२ – २०)
Article Details
Section

This work is licensed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.